पूर्वम्: ४।३।१२६
अनन्तरम्: ४।३।१२८
 
सूत्रम्
संघाङ्कलक्षणेष्वञ्यञिञामण्॥ ४।३।१२७
काशिका-वृत्तिः
सङ्घाङ्कलक्षणेष्वञ्यञिञाम् अण् ४।३।१२७

सङ्घाऽदिषु प्रतयार्थविशेषणेषु अञनताद्, यञन्ताद्, इञन्ताच् च प्रातिपदिकादण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य वुञो ऽपवादः। घोषग्रहणम् अत्र कर्तव्यम्। तेन वैषम्याद् यथासङ्ख्यं न भवति। अञनतात् बैदः सङ्घः। बैदा ऽङ्कः। बैदम् लक्षणम्। बैदो घोषः। यञन्तात् गार्गः सङ्घः। गार्गो ऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् दाक्षः सङ्घः। दाक्षो ऽङकः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः? लक्षणं लक्ष्यभूतस्य एव चिह्नभूतं स्वं यथा विद्या बिदानाम्, अङ्कस्तु गवादिस्थो ऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। वैदी विद्या अस्य वैदीविद्यः।
न्यासः
सङ्घाङ्कलक्षणेष्वञ्यञिञामण्। , ४।३।१२७

तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात्? घोषे च प्रत्ययो न स्यात्। "बैदः" इति। "अनृष" ४।१।१०४ इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। "लक्षणम्" इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव? अत आह-- "णित्करणम्" इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे" ६।३।३८ इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्॥